Sukta 8.43
धासिं कृण्वान ओषधीर्बप्सदग्निर्न वायति । पुनर्यन्तरुणीरपि ॥
धा॒सिं कृ॑ण्वा॒न ओष॑धी॒र्बप्स॑द॒ग्निर्न वा॑यति । पुन॒र्यन्तरु॑णी॒रपि॑ ॥
dhāsím kṛṇvāná oṣádhīr bapsad agnír ná vāyati | púnar yán taruṇī́r ápi ||
Making his portion of nourishment, Agni bites into the plants; he does not weary. Again the young growths return—life renews itself after the purifying blaze.
धा॒सिम् । कृ॒ण्वा॒नः । ओष॑धीः । बप्स॑त् । अ॒ग्निः । न । वा॒य॒ति॒ । पुनः॑ । यन् । तरु॑णीः । अपि॑ ॥धासिम् । कृण्वानः । ओषधीः । बप्सत् । अग्निः । न । वायति । पुनः । यन् । तरुणीः । अपि ॥dhāsim | kṛṇvānaḥ | oṣadhīḥ | bapsat | agniḥ | na | vāyati | punaḥ | yan | taruṇīḥ | api