Sukta 8.43
एते त्ये वृथगग्नय इद्धासः समदृक्षत । उषसामिव केतवः ॥
ए॒ते त्ये वृथ॑ग॒ग्नय॑ इ॒द्धास॒: सम॑दृक्षत । उ॒षसा॑मिव के॒तव॑: ॥
eté tyé vṛ́thag agnáya iddhā́saḥ sám adṛkṣata | uṣásām iva ketávaḥ ||
These many fires, once kindled, are seen together—like the banners/rays of the Dawns: signs of an arriving illumination in consciousness.
ए॒ते । त्ये । वृथ॑क् । अ॒ग्नयः॑ । इ॒द्धासः॑ । सम् । अ॒दृ॒क्ष॒त॒ । उ॒षसा॑म्ऽइव । के॒तवः॑ ॥एते । त्ये । वृथक् । अग्नयः । इद्धासः । सम् । अदृक्षत । उषसाम्इव । केतवः ॥ete | tye | vṛthak | agnayaḥ | iddhāsaḥ | sam | adṛkṣata | uṣasām-iva | ketavaḥ