Sukta 8.43
अग्निं मन्द्रं पुरुप्रियं शीरं पावकशोचिषम् । हृद्भिर्मन्द्रेभिरीमहे ॥
अ॒ग्निं म॒न्द्रं पु॑रुप्रि॒यं शी॒रं पा॑व॒कशो॑चिषम् । हृ॒द्भिर्म॒न्द्रेभि॑रीमहे ॥
agníṃ mandráṃ puru-priyáṃ śīráṃ pāvaka-śóciṣam | hṛ́dbhir mandrébhir īmahe ||
We seek Agni—the rapturous, the much-beloved, the strong and luminous with purifying flame—by our rapturous hearts.
अ॒ग्निम् । म॒न्द्रम् । पु॒रु॒ऽप्रि॒यम् । शी॒रम् । पा॒व॒कऽशो॑चिषम् । हृ॒त्ऽभिः । म॒न्द्रेभिः॑ । ई॒म॒हे॒ ॥अग्निम् । मन्द्रम् । पुरुप्रियम् । शीरम् । पावकशोचिषम् । हृत्भिः । मन्द्रेभिः । ईमहे ॥agnim | mandram | puru-priyam | śīram | pāvaka-śociṣam | hṛt-bhiḥ | mandrebhiḥ | īmahe