Sukta 8.43
ते घेदग्ने स्वाध्योऽहा विश्वा नृचक्षसः । तरन्तः स्याम दुर्गहा ॥
ते घेद॑ग्ने स्वा॒ध्योऽहा॒ विश्वा॑ नृ॒चक्ष॑सः । तर॑न्तः स्याम दु॒र्गहा॑ ॥
té ghéd agne svā́dhyo áhā víśvā nṛ-cákṣasaḥ | tárantaḥ syāma durgáhā ||
Then indeed, O Agni, may we—seeing as men should see—become masters of all our days; and crossing over, may we pass beyond what is hard to traverse.
ते । घ॒ । इत् । अ॒ग्ने॒ । सु॒ऽआ॒ध्यः । अहा॑ । विश्वा॑ । नृ॒ऽचक्ष॑सः । तर॑न्तः । स्या॒म॒ । दुः॒ऽगहा॑ ॥ते । घ । इत् । अग्ने । सुआध्यः । अहा । विश्वा । नृचक्षसः । तरन्तः । स्याम । दुःगहा ॥te | gha | it | agne | su-ādhyaḥ | ahā | viśvā | nṛ-cakṣasaḥ | tarantaḥ | syāma | duḥ-gahā