Sukta 8.43
तुभ्यं घेत्ते जना इमे विश्वाः सुक्षितयः पृथक् । धासिं हिन्वन्त्यत्तवे ॥
तुभ्यं॒ घेत्ते जना॑ इ॒मे विश्वा॑: सुक्षि॒तय॒: पृथ॑क् । धा॒सिं हि॑न्व॒न्त्यत्त॑वे ॥
túbhyaṃ ghétté jánā imé víśvāḥ su-kṣitáyaḥ pṛ́thak | dhāsíṃ hinvánty áttave ||
To you indeed these peoples—all the well-settled powers, each in its own place—send forward the portion of nourishment for your consuming, O Agni.
तुभ्य॑म् । घ॒ । इत् । ते । जनाः॑ । इ॒मे । विश्वाः॑ । सु॒ऽक्षि॒तयः॑ । पृथ॑क् । धा॒सिम् । हि॒न्व॒न्ति॒ । अत्त॑वे ॥तुभ्यम् । घ । इत् । ते । जनाः । इमे । विश्वाः । सुक्षितयः । पृथक् । धासिम् । हिन्वन्ति । अत्तवे ॥tubhyam | gha | it | te | janāḥ | ime | viśvāḥ | su-kṣitayaḥ | pṛthak | dhāsim | hinvanti | attave