Sukta 8.43
आरोका इव घेदह तिग्मा अग्ने तव त्विषः । दद्भिर्वनानि बप्सति ॥
आ॒रो॒का इ॑व॒ घेदह॑ ति॒ग्मा अ॑ग्ने॒ तव॒ त्विष॑: । द॒द्भिर्वना॑नि बप्सति ॥
ārokā́ iva ghéd áha tigmā́ agne táva tviṣáḥ | dád-bhir vánāni bapsati ||
Like bright openings of light, indeed, O Agni, your keen intensities blaze; with your ‘teeth’ you bite into the forests—clearing the dense growth within us so the way for the Light may open.
आ॒रो॒काःऽइ॑व । घ॒ । इत् । अह॑ । ति॒ग्माः । अ॒ग्ने॒ । तव॑ । त्विषः॑ । द॒त्ऽभिः । वना॑नि । ब॒प्स॒ति॒ ॥आरोकाःइव । घ । इत् । अह । तिग्माः । अग्ने । तव । त्विषः । दत्भिः । वनानि । बप्सति ॥ārokāḥ-iva | gha | it | aha | tigmāḥ | agne | tava | tviṣaḥ | dat-bhiḥ | vanāni | bapsati