Sukta 8.43
अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे । अग्ने जनामि सुष्टुतिम् ॥
अस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे । अग्ने॒ जना॑मि सुष्टु॒तिम् ॥
ásmai te prati-háryate jātá-vedo ví-carṣaṇe | ágne jánāmi su-stutím ||
For him who would win you back in response, O Jātavedas, O pervader of men, I beget a well-shaped praise to Agni.
अस्मै॑ । ते॒ । प्र॒ति॒ऽहर्य॑ते । जात॑ऽवेदः । विऽच॑र्षणे । अग्ने॑ । जना॑मि । सु॒ऽस्तु॒तिम् ॥अस्मै । ते । प्रतिहर्यते । जातवेदः । विचर्षणे । अग्ने । जनामि । सुस्तुतिम् ॥asmai | te | prati-haryate | jāta-vedaḥ | vi-carṣaṇe | agne | janāmi | su-stutim