Sukta 8.43
यदग्ने दिविजा अस्यप्सुजा वा सहस्कृत । तं त्वा गीर्भिर्हवामहे ॥
यद॑ग्ने दिवि॒जा अस्य॑प्सु॒जा वा॑ सहस्कृत । तं त्वा॑ गी॒र्भिर्ह॑वामहे ॥
yád agne divi-jā́ ásy apsu-jā́ vā sahas-kṛta | táṃ tvā gī́rbhir havāmahe ||
Whether, O Agni, you are born in heaven or born in the waters—O power fashioned by might—we call you with our inspired songs.
यत् । अ॒ग्ने॒ । दि॒वि॒ऽजाः । असि॑ । अ॒प्सु॒ऽजाः । वा॒ । स॒हः॒ऽकृ॒त॒ । तम् । त्वा॒ । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ॥यत् । अग्ने । दिविजाः । असि । अप्सुजाः । वा । सहःकृत । तम् । त्वा । गीःभिः । हवामहे ॥yat | agne | divi-jāḥ | asi | apsu-jāḥ | vā | sahaḥ-kṛta | tam | tvā | gīḥ-bhiḥ | havāmahe