Sukta 8.43
तमीळिष्व य आहुतोऽग्निर्विभ्राजते घृतैः । इमं नः शृणवद्धवम् ॥
तमी॑ळिष्व॒ य आहु॑तो॒ऽग्निर्वि॒भ्राज॑ते घृ॒तैः । इ॒मं न॑: शृणव॒द्धव॑म् ॥
tám īḷiṣva yá ā́huto ’gnír vi-bhrā́jate ghṛtáiḥ | imáṃ naḥ śṛṇavád dhávam ||
Adore him—Agni—who, when invoked, shines forth with the clarified energies; may he hear this call of ours and answer by awakening the luminous work within.
तम् । ई॒ळि॒ष्व॒ । यः । आऽहु॑तः । अ॒ग्निः । वि॒ऽभ्राज॑ते । घृ॒तैः । इ॒मम् । नः॒ । शृ॒ण॒व॒त् । हव॑म् ॥तम् । ईळिष्व । यः । आहुतः । अग्निः । विभ्राजते । घृतैः । इमम् । नः । शृणवत् । हवम् ॥tam | īḷiṣva | yaḥ | āhutaḥ | agniḥ | vi-bhrājate | ghṛtaiḥ | imam | naḥ | śṛṇavat | havam