Sukta 8.43
तं त्वामज्मेषु वाजिनं तन्वाना अग्ने अध्वरम् । वह्निं होतारमीळते ॥
तं त्वामज्मे॑षु वा॒जिनं॑ तन्वा॒ना अ॑ग्ने अध्व॒रम् । वह्निं॒ होता॑रमीळते ॥
táṃ tvām ájmeṣu vājínaṃ tanvānā́ agne adhvarám | váhniṃ hótāram īḷate ||
You, the forceful one in the rush of movements, O Agni—spreading the sacrifice—are adored as the bearer and as the priest of offering.
तम् । त्वाम् । अज्मे॑षु । वा॒जिन॑म् । त॒न्वा॒नाः । अ॒ग्ने॒ । अ॒ध्व॒रम् । वह्नि॑म् । होता॑रम् । ई॒ळ॒ते॒ ॥तम् । त्वाम् । अज्मेषु । वाजिनम् । तन्वानाः । अग्ने । अध्वरम् । वह्निम् । होतारम् । ईळते ॥tam | tvām | ajmeṣu | vājinam | tanvānāḥ | agne | adhvaram | vahnim | hotāram | īḷate