Sukta 8.43
इमे विप्रस्य वेधसोऽग्नेरस्तृतयज्वनः । गिरः स्तोमास ईरते ॥
इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः । गिर॒: स्तोमा॑स ईरते ॥
imé víprasya vedháso ’gnér astṛ́ta-yajvanaḥ | gíraḥ stómāsa īrate ||
These utterances and hymns rise up for Agni—of the inspired knower, the unfailing sacrificer—kindling the divine Will in us.
इ॒मे । विप्र॑स्य । वे॒धसः॑ । अ॒ग्नेः । अस्तृ॑तऽयज्वनः । गिरः॑ । स्तोमा॑सः । ई॒र॒ते॒ ॥इमे । विप्रस्य । वेधसः । अग्नेः । अस्तृतयज्वनः । गिरः । स्तोमासः । ईरते ॥ime | viprasya | vedhasaḥ | agneḥ | astṛta-yajvanaḥ | giraḥ | stomāsaḥ | īrate