Sukta 8.41
यस्य श्वेता विचक्षणा तिस्रो भूमीरधिक्षितः । त्रिरुत्तराणि पप्रतुर्वरुणस्य ध्रुवं सदः स सप्तानामिरज्यति नभन्तामन्यके समे ॥
यस्य॑ श्वे॒ता वि॑चक्ष॒णा ति॒स्रो भूमी॑रधिक्षि॒तः । त्रिरुत्त॑राणि प॒प्रतु॒र्वरु॑णस्य ध्रु॒वं सद॒: स स॑प्ता॒नामि॑रज्यति॒ नभ॑न्तामन्य॒के स॑मे ॥
yásya śvetā́ vi-cakṣaṇā́ tisró bhū́mīr adhi-kṣitáḥ | trír uttárāṇi papratúr váruṇasya dhruváṃ sádaḥ | sá saptā́nām irajyati nábhantām anyaké samé ||
He whose clear, luminous discernments dwell above the three worlds of our being; thrice they press beyond into the higher reaches of Varuṇa’s fixed and steady seat. He harmonises the sevenfold powers within us; may the other forces find their right level in the common unity.
यस्य॑ । श्वे॒ता । वि॒ऽच॒क्ष॒णा । ति॒स्रः । भूमीः॑ । अ॒धि॒ऽक्षि॒तः । त्रिः । उत्ऽत॑राणि । प॒प्रतुः॑ । वरु॑णस्य । ध्रु॒वम् । सदः॑ । सः । स॒प्ता॒नाम् । इ॒रज्य॒ति॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥यस्य । श्वेता । विचक्षणा । तिस्रः । भूमीः । अधिक्षितः । त्रिः । उत्तराणि । पप्रतुः । वरुणस्य । ध्रुवम् । सदः । सः । सप्तानाम् । इरज्यति । नभन्ताम् । अन्यके । समे ॥yasya | śvetā | vi-cakṣaṇā | tisraḥ | bhūmīḥ | adhi-kṣitaḥ | triḥ | ut-tarāṇi | papratuḥ | varuṇasya | dhruvam | sadaḥ | saḥ | saptānām | irajyati | nabhantām | anyake | same