Sukta 8.41
यः श्वेताँ अधिनिर्णिजश्चक्रे कृष्णाँ अनु व्रता । स धाम पूर्व्यं ममे यः स्कम्भेन वि रोदसी अजो न द्यामधारयन्नभन्तामन्यके समे ॥
यः श्वे॒ताँ अधि॑निर्णिजश्च॒क्रे कृ॒ष्णाँ अनु॑ व्र॒ता । स धाम॑ पू॒र्व्यं म॑मे॒ यः स्क॒म्भेन॒ वि रोद॑सी अ॒जो न द्यामधा॑रय॒न्नभ॑न्तामन्य॒के स॑मे ॥
yáḥ śvetā́m̐ ádhi-nirṇijaś cakré kṛṣṇā́m̐ ánu vratā́ | sá dhā́ma pūrvyáṃ mamé yáḥ skambhéna ví rodasī́ | ajó ná dyā́m ádhārayann nábhantām anyaké samé ||
He who has set the bright radiances above, and made the dark follow the law; he has measured out the ancient foundation. He who, by the supporting Pillar, has opened out the two worlds, and like the Unborn has upheld the heaven—may the other forces shine in an equal harmony.
यः । श्वे॒तान् । अधि॑ऽनिर्निजः । च॒क्रे । कृ॒ष्णान् । अनु॑ । व्र॒ता । सः । धाम॑ । पू॒र्व्यम् । म॒मे॒ । यः । स्क॒म्भेन॑ । वि । रोद॑सी॒ इति॑ । अ॒जः । न । द्याम् । अधा॑रयत् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥यः । श्वेतान् । अधिनिर्निजः । चक्रे । कृष्णान् । अनु । व्रता । सः । धाम । पूर्व्यम् । ममे । यः । स्कम्भेन । वि । रोदसी इति । अजः । न । द्याम् । अधारयत् । नभन्ताम् । अन्यके । समे ॥yaḥ | śvetān | adhi-nirnijaḥ | cakre | kṛṣṇān | anu | vratā | saḥ | dhāma | pūrvyam | mame | yaḥ | skambhena | vi | rodasī iti | ajaḥ | na | dyām | adhārayat | nabhantām | anyake | same