Sukta 8.41
य आस्वत्क आशये विश्वा जातान्येषाम् । परि धामानि मर्मृशद्वरुणस्य पुरो गये विश्वे देवा अनु व्रतं नभन्तामन्यके समे ॥
य आ॒स्वत्क॑ आ॒शये॒ विश्वा॑ जा॒तान्ये॑षाम् । परि॒ धामा॑नि॒ मर्मृ॑श॒द्वरु॑णस्य पु॒रो गये॒ विश्वे॑ दे॒वा अनु॑ व्र॒तं नभ॑न्तामन्य॒के स॑मे ॥
ya āsu atka āśaye viśvā jātāni eṣām | pari dhāmāni marmṛśad varuṇasya puro gayaḥ viśve devā anu vratam nabhantām anyake same ||
He who, in these, as a garment, lies in the resting-place of all that is born; he touches and feels out the dwellings all around—before Varuṇa’s presence all the gods move according to the law—may the lights shine in another sameness.
यः । आ॒सु॒ । अत्कः॑ । आ॒ऽशये॑ । विश्वा॑ । जा॒तानि॑ । ए॒षा॒म् । परि॑ । धामा॑नि । मर्मृ॑शत् । वरु॑णस्य । पु॒रः । गयः॑ । विश्वे॑ । दे॒वाः । अनु॑ । व्र॒तम् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥यः । आसु । अत्कः । आशये । विश्वा । जातानि । एषाम् । परि । धामानि । मर्मृशत् । वरुणस्य । पुरः । गयः । विश्वे । देवाः । अनु । व्रतम् । नभन्ताम् । अन्यके । समे ॥yaḥ | āsu | atkaḥ | āśaye | viśvā | jātāni | eṣām | pari | dhāmāni | marmṛśat | varuṇasya | puraḥ | gayaḥ | viśve | devāḥ | anu | vratam | nabhantām | anyake | same