Sukta 8.41
यस्मिन्विश्वानि काव्या चक्रे नाभिरिव श्रिता । त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वाँ अयुक्षत नभन्तामन्यके समे ॥
यस्मि॒न्विश्वा॑नि॒ काव्या॑ च॒क्रे नाभि॑रिव श्रि॒ता । त्रि॒तं जू॒ती स॑पर्यत व्र॒जे गावो॒ न सं॒युजे॑ यु॒जे अश्वाँ॑ अयुक्षत॒ नभ॑न्तामन्य॒के स॑मे ॥
yasmin viśvāni kāvyā cakre nābhir iva śritā | tritaṃ jūtī saparyata vraje gāvo na sam-yuje yuje aśvān ayukṣata nabhantām anyake same ||
In whom all inspired works are set, as in a navel they are held together—Trita in swift movement served him; in the pen, like cows for yoking, they yoked the horses for the yoke—may the lights shine in another sameness.
यस्मि॑न् । विश्वा॑नि । काव्या॑ । च॒क्रे । नाभिः॑ऽइव । श्रि॒ता । त्रि॒तम् । जू॒ती । स॒प॒र्य॒त॒ । व्र॒जे । गावः॑ । न । स॒म्ऽयुजे॑ । यु॒जे । अश्वा॑न् । अ॒यु॒क्ष॒त॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥यस्मिन् । विश्वानि । काव्या । चक्रे । नाभिःइव । श्रिता । त्रितम् । जूती । सपर्यत । व्रजे । गावः । न । सम्युजे । युजे । अश्वान् । अयुक्षत । नभन्ताम् । अन्यके । समे ॥yasmin | viśvāni | kāvyā | cakre | nābhiḥ-iva | śritā | tritam | jūtī | saparyata | vraje | gāvaḥ | na | sam-yuje | yuje | aśvāmn | ayukṣata | nabhantām | anyake | same