Sukta 8.41
यो धर्ता भुवनानां य उस्राणामपीच्या वेद नामानि गुह्या । स कविः काव्या पुरु रूपं द्यौरिव पुष्यति नभन्तामन्यके समे ॥
यो ध॒र्ता भुव॑नानां॒ य उ॒स्राणा॑मपी॒च्या॒३॒॑ वेद॒ नामा॑नि॒ गुह्या॑ । स क॒विः काव्या॑ पु॒रु रू॒पं द्यौरि॑व पुष्यति॒ नभ॑न्तामन्य॒के स॑मे ॥
yo dhartā bhuvanānāṃ ya usrāṇām apīcyā veda nāmāni guhyā | sa kaviḥ kāvyā puru rūpaṃ dyaur iva puṣyati nabhantām anyake same ||
He is the holder of the worlds; he knows the secret names of the hidden dawn-lights. He, the seer-poet, by his poetic power fosters many forms like Heaven itself—may the lights shine in another sameness.
यः । ध॒र्ता । भुव॑नानाम् । यः । उ॒स्राणा॑म् । अ॒पी॒च्या॑ । वेद॑ । नामा॑नि । गुह्या॑ । सः । क॒विः । काव्या॑ । पु॒रु । रू॒पम् । द्यौःऽइ॑व । पु॒ष्य॒ति॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥यः । धर्ता । भुवनानाम् । यः । उस्राणाम् । अपीच्या । वेद । नामानि । गुह्या । सः । कविः । काव्या । पुरु । रूपम् । द्यौःइव । पुष्यति । नभन्ताम् । अन्यके । समे ॥yaḥ | dhartā | bhuvanānām | yaḥ | usrāṇām | apīcyā | veda | nāmāni | guhyā | saḥ | kaviḥ | kāvyā | puru | rūpam | dyauḥ-iva | puṣyati | nabhantām | anyake | same