Sukta 8.41
तमू षु समना गिरा पितॄणां च मन्मभिः । नाभाकस्य प्रशस्तिभिर्यः सिन्धूनामुपोदये सप्तस्वसा स मध्यमो नभन्तामन्यके समे ॥
तमू॒ षु स॑म॒ना गि॒रा पि॑तॄ॒णां च॒ मन्म॑भिः । ना॒भा॒कस्य॒ प्रश॑स्तिभि॒र्यः सिन्धू॑ना॒मुपो॑द॒ये स॒प्तस्व॑सा॒ स म॑ध्य॒मो नभ॑न्तामन्य॒के स॑मे ॥
tam ū ṣu samanā girā pitṝṇāṃ ca manmabhiḥ | nābhākasya praśastibhir yaḥ sindhūnām upodaye sapta-svasā sa madhyamo nabhantām anyake same ||
Him indeed we hymn with a common chant, with the Fathers’ thought-forms; with the praises of Nābhāka—he who rises at the upsurge of the rivers, the seven-sistered stream: he is the middle (mediating) power—may the lights surge in another sameness.
तम् । ऊँ॒ इति॑ । सु । स॒म॒ना । गि॒रा । पि॒तॄ॒णाम् । च॒ । मन्म॑ऽभिः । ना॒भा॒कस्य॑ । प्रस॑स्तिऽभिः॑ । यः । सिन्धू॑नाम् । उप॑ । उ॒त्ऽअ॒ये । स॒प्तऽस्व॑सा । सः । म॒ध्य॒मः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥तम् । ऊँ इति । सु । समना । गिरा । पितॄणाम् । च । मन्मभिः । नाभाकस्य । प्रसस्तिभिः । यः । सिन्धूनाम् । उप । उत्अये । सप्तस्वसा । सः । मध्यमः । नभन्ताम् । अन्यके । समे ॥tam | oṃ iti | su | samanā | girā | pitṝṇām | ca | manma-bhiḥ | nābhākasya | prasasti-bhiḥ | yaḥ | sindhūnām | upa | ut-aye | sapta-svasā | saḥ | madhyamaḥ | nabhantām | anyake | same