Sukta 8.41
स क्षपः परि षस्वजे न्युस्रो मायया दधे स विश्वं परि दर्शतः । तस्य वेनीरनु व्रतमुषस्तिस्रो अवर्धयन्नभन्तामन्यके समे ॥
स क्षप॒: परि॑ षस्वजे॒ न्यु१॒॑स्रो मा॒यया॑ दधे॒ स विश्वं॒ परि॑ दर्श॒तः । तस्य॒ वेनी॒रनु॑ व्र॒तमु॒षस्ति॒स्रो अ॑वर्धय॒न्नभ॑न्तामन्य॒के स॑मे ॥
sa kṣapaḥ pari sasvaje ni usraḥ māyayā dadhe sa viśvaṃ pari darśataḥ | tasya venīr anu vratam uṣas tisro avardhayan nabhantām anyake same ||
He embraced the nights all around; and he set the Dawn-cow below by his power of formation; he looks around upon all existence. Following his law, the three Dawns increase like braided streams—may the lights shine in another sameness.
सः । क्षपः॑ । परि॑ । स॒स्व॒जे॒ । नि । उ॒स्रः । मा॒यया॑ । दधे॑ । सः । विश्व॑म् । परि॑ । द॒र्श॒तः । तस्य॑ । वेनीः॑ । अनु॑ । व्र॒तम् । उ॒षः । ति॒स्रः । अ॒व॒र्ध॒य॒न् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥सः । क्षपः । परि । सस्वजे । नि । उस्रः । मायया । दधे । सः । विश्वम् । परि । दर्शतः । तस्य । वेनीः । अनु । व्रतम् । उषः । तिस्रः । अवर्धयन् । नभन्ताम् । अन्यके । समे ॥saḥ | kṣapaḥ | pari | sasvaje | ni | usraḥ | māyayā | dadhe | saḥ | viśvam | pari | darśataḥ | tasya | venīḥ | anu | vratam | uṣaḥ | tisraḥ | avardhayan | nabhantām | anyake | same