Sukta 8.41
अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्योऽर्चा विदुष्टरेभ्यः । यो धीता मानुषाणां पश्वो गा इव रक्षति नभन्तामन्यके समे ॥
अ॒स्मा ऊ॒ षु प्रभू॑तये॒ वरु॑णाय म॒रुद्भ्योऽर्चा॑ वि॒दुष्ट॑रेभ्यः । यो धी॒ता मानु॑षाणां प॒श्वो गा इ॑व॒ रक्ष॑ति॒ नभ॑न्तामन्य॒के स॑मे ॥
asmā ū ṣu prabhūtaye varuṇāya marudbhyo 'rcā viduṣṭarebhyaḥ | yo dhītā mānuṣāṇāṃ paśvo gā iva rakṣati nabhantām anyake same ||
To him—yes, to the vastness—sing a hymn: to Varuṇa and to the Maruts, the most knowing powers; he who, as the establisher of thought in men, guards the herds like cows—may the forces shine forth in another, higher sameness.
अस्मै । ऊँ॒ इति॑ । सु । प्रऽभू॑तये । वरु॑णाय । म॒रुत्ऽभ्यः॑ । अर्च॑ । वि॒दुःऽत॑रेभ्यः । यः । धी॒ता । मानु॑षाणाम् । प॒श्वः । गाःऽइ॑व । रक्ष॑ति । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥अस्मै । ऊँ इति । सु । प्रभूतये । वरुणाय । मरुत्भ्यः । अर्च । विदुःतरेभ्यः । यः । धीता । मानुषाणाम् । पश्वः । गाःइव । रक्षति । नभन्ताम् । अन्यके । समे ॥asmai | oṃ iti | su | pra-bhūtaye | varuṇāya | marut-bhyaḥ | arca | viduḥ-tarebhyaḥ | yaḥ | dhītā | mānuṣāṇām | paśvaḥ | gāḥ-iva | rakṣati | nabhantām | anyake | same