Sukta 8.40
पूर्वीष्ट इन्द्रोपमातयः पूर्वीरुत प्रशस्तयः सूनो हिन्वस्य हरिवः । वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्तामन्यके समे ॥
पू॒र्वीष्ट॑ इ॒न्द्रोप॑मातयः पू॒र्वीरु॒त प्रश॑स्तय॒: सूनो॑ हि॒न्वस्य॑ हरिवः । वस्वो॑ वी॒रस्या॒पृचो॒ या नु साध॑न्त नो॒ धियो॒ नभ॑न्तामन्य॒के स॑मे ॥
pūrvī́ṣṭa indrópa-mātayaḥ pūrvī́r utá práśastayaḥ sū́no hinvásya harivaḥ | vásvo vīrásy ā́pṛco yā́ nu sā́dhanta no dhíyo nábhantām anyaké samé ||
Many are your ancient helps, O Indra; many too are your praises, O son of strength, O bearer of the tawny steeds. These contacts of the hero’s treasure that now accomplish our inspired thoughts—may the others be scattered in the same field.
पू॒र्वीः । ते॒ । इ॒न्द्र॒ । उप॑ऽमातयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः । सूनो॒ इति॑ । हि॒न्वस्य॑ । ह॒रि॒ऽवः॒ । वस्वः॑ । वी॒रस्य॑ । आ॒ऽपृचः॑ । या । नु । साध॑न्त । नः॒ । धियः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥पूर्वीः । ते । इन्द्र । उपमातयः । पूर्वीः । उत । प्रशस्तयः । सूनो इति । हिन्वस्य । हरिवः । वस्वः । वीरस्य । आपृचः । या । नु । साधन्त । नः । धियः । नभन्ताम् । अन्यके । समे ॥pūrvīḥ | te | indra | upa-mātayaḥ | pūrvīḥ | uta | pra-śastayaḥ | sūno iti | hinvasya | hari-vaḥ | vasvaḥ | vīrasya | āpṛcaḥ | yā | nu | sādhanta | naḥ | dhiyaḥ | nabhantām | anyake | same