Sukta 8.40
तं शिशीता सुवृक्तिभिस्त्वेषं सत्वानमृग्मियम् । उतो नु चिद्य ओजसा शुष्णस्याण्डानि भेदति जेषत्स्वर्वतीरपो नभन्तामन्यके समे ॥
तं शि॑शीता सुवृ॒क्तिभि॑स्त्वे॒षं सत्वा॑नमृ॒ग्मिय॑म् । उ॒तो नु चि॒द्य ओज॑सा॒ शुष्ण॑स्या॒ण्डानि॒ भेद॑ति॒ जेष॒त्स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥
táṃ śiśītā suvṛ́ktibhis tveṣáṃ satvā́nam ṛ́gmiyam | utó nu cíd yá ójasā śúṣṇasyā́ṇḍāni bhédati jéṣat svàr-vatīr apó nábhantām anyaké samé ||
Sharpen him with well-fashioned words—him, the impetuous, the strong, the one worthy of the hymn. For even now he who by force breaks the eggs of Śuṣṇa will conquer the waters that bear the luminous heaven; may the others be scattered in the same field.
तम् । शि॒शी॒त॒ । सु॒वृ॒क्तिऽभिः॑ । त्वे॒षम् । सत्वा॑नम् । ऋ॒ग्मिय॑म् । उ॒तो इति॑ । नु । चि॒त् । यः । ओज॑सा । शुष्ण॑स्य । आ॒ण्डानि॑ । भेद॑ति । जेष॑त् । स्वः॑ऽवतीः । अ॒पः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥तम् । शिशीत । सुवृक्तिभिः । त्वेषम् । सत्वानम् । ऋग्मियम् । उतो इति । नु । चित् । यः । ओजसा । शुष्णस्य । आण्डानि । भेदति । जेषत् । स्वःवतीः । अपः । नभन्ताम् । अन्यके । समे ॥tam | śiśīta | suvṛkti-bhiḥ | tveṣam | satvānam | ṛgmiyam | uto iti | nu | cit | yaḥ | ojasā | śuṣṇasya | āṇḍāni | bhedati | jeṣat | svaḥ-vatīḥ | apaḥ | nabhantām | anyake | same