Sukta 8.40
यदिन्द्राग्नी जना इमे विह्वयन्ते तना गिरा । अस्माकेभिर्नृभिर्वयं सासह्याम पृतन्यतो वनुयाम वनुष्यतो नभन्तामन्यके समे ॥
यदि॑न्द्रा॒ग्नी जना॑ इ॒मे वि॒ह्वय॑न्ते॒ तना॑ गि॒रा । अ॒स्माके॑भि॒र्नृभि॑र्व॒यं सा॑स॒ह्याम॑ पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तो नभ॑न्तामन्य॒के स॑मे ॥
yád indrā́gnī jánā imé vi-hváyante tánā girā́ | asmā́kebhir nṛ́bhir vayáṃ sāsahyā́ma pṛtanyató vanuyā́ma vanuṣyató nábhantām anyaké samé ||
When these peoples call upon Indra and Agni with their own voice, then with our men may we endure and prevail; may we win against those who fight and against those who seek to win; may the others be scattered in the same field.
यत् । इ॒न्द्रा॒ग्नी इति॑ । जनाः॑ । इ॒मे । वि॒ऽह्वय॑न्ते । तना॑ । गि॒रा । अ॒स्माके॑भिः । नृऽभिः॑ । व॒यम् । स॒स॒ह्याम॑ । पृ॒त॒न्य॒तः । व॒नु॒याम॑ । व॒नु॒ष्य॒तः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥यत् । इन्द्राग्नी इति । जनाः । इमे । विह्वयन्ते । तना । गिरा । अस्माकेभिः । नृभिः । वयम् । ससह्याम । पृतन्यतः । वनुयाम । वनुष्यतः । नभन्ताम् । अन्यके । समे ॥yat | indrāgnī iti | janāḥ | ime | vi-hvayante | tanā | girā | asmākebhiḥ | nṛ-bhiḥ | vayam | sasahyāma | pṛtanyataḥ | vanuyāma | vanuṣyataḥ | nabhantām | anyake | same