Sukta 8.40
अपि वृश्च पुराणवद्व्रततेरिव गुष्पितमोजो दासस्य दम्भय । वयं तदस्य सम्भृतं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे ॥
अपि॑ वृश्च पुराण॒वद्व्र॒तते॑रिव गुष्पि॒तमोजो॑ दा॒सस्य॑ दम्भय । व॒यं तद॑स्य॒ सम्भृ॑तं॒ वस्विन्द्रे॑ण॒ वि भ॑जेमहि॒ नभ॑न्तामन्य॒के स॑मे ॥
ápi vṛśca purāṇavád vratáter iva guṣpitám ójo dāsásya dambhaya | vayáṃ tád asya sambhṛtáṃ vásv índreṇa ví bhajemahi nábhantām anyaké samé ||
Cut down even as of old the knotted force, as one cuts the fastening of a vow-breaker; shatter the power of the Dāsa. Then may we, with Indra, distribute the gathered treasure of being; may the others be scattered in the same field.
अपि॑ । वृ॒श्च॒ । पु॒रा॒ण॒ऽवत् । व्र॒ततेः॑ऽइव । गु॒ष्पि॒तम् । ओजः॑ । दा॒सस्य॑ । द॒म्भ॒य॒ । व॒यम् । तत् । अ॒स्य॒ । सम्ऽभृ॑तम् । वसु॑ । इन्द्रे॑ण । वि । भ॒जे॒म॒हि॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥अपि । वृश्च । पुराणवत् । व्रततेःइव । गुष्पितम् । ओजः । दासस्य । दम्भय । वयम् । तत् । अस्य । सम्भृतम् । वसु । इन्द्रेण । वि । भजेमहि । नभन्ताम् । अन्यके । समे ॥api | vṛśca | purāṇa-vat | vratateḥ-iva | guṣpitam | ojaḥ | dāsasya | dambhaya | vayam | tat | asya | sam-bhṛtam | vasu | indreṇa | vi | bhajemahi | nabhantām | anyake | same