Sukta 8.40
प्र ब्रह्माणि नभाकवदिन्द्राग्निभ्यामिरज्यत । या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा नभन्तामन्यके समे ॥
प्र ब्रह्मा॑णि नभाक॒वदि॑न्द्रा॒ग्निभ्या॑मिरज्यत । या स॒प्तबु॑ध्नमर्ण॒वं जि॒ह्मबा॑रमपोर्णु॒त इन्द्र॒ ईशा॑न॒ ओज॑सा॒ नभ॑न्तामन्य॒के स॑मे ॥
prá bráhmāṇi nabhā́kavad indrā́gníbhyām irajyata | yā́ saptá-budhnam arṇaváṃ jihmá-bāram aporṇutá índra ī́śāna ójasā nábhantām anyaké samé ||
Send forth the brahmāṇi, as Nabhāka did, for Indra and Agni. They who opened the seven-founded ocean, the oblique-barred enclosure—Indra, lord by his force—may the others be scattered in the same field.
प्र । ब्रह्मा॑णि । न॒भा॒क॒ऽवत् । इ॒न्द्रा॒ग्निऽभ्या॑म् । इ॒र॒ज्य॒त॒ । या । स॒प्तऽबु॑ध्नम् । अ॒र्ण॒वम् । जि॒ह्मऽबा॑रम् । अ॒प॒ऽऊ॒र्णु॒तः । इन्द्रः॑ । ईशा॑नः । ओज॑सा । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥प्र । ब्रह्माणि । नभाकवत् । इन्द्राग्निभ्याम् । इरज्यत । या । सप्तबुध्नम् । अर्णवम् । जिह्मबारम् । अपऊर्णुतः । इन्द्रः । ईशानः । ओजसा । नभन्ताम् । अन्यके । समे ॥pra | brahmāṇi | nabhāka-vat | indrāgni-bhyām | irajyata | yā | sapta-budhnam | arṇavam | jihma-bāram | apa-ūrṇutaḥ | indraḥ | īśānaḥ | ojasā | nabhantām | anyake | same