Sukta 8.40
अभ्यर्च नभाकवदिन्द्राग्नी यजसा गिरा । ययोर्विश्वमिदं जगदियं द्यौः पृथिवी मह्युपस्थे बिभृतो वसु नभन्तामन्यके समे ॥
अ॒भ्य॑र्च नभाक॒वदि॑न्द्रा॒ग्नी य॒जसा॑ गि॒रा । ययो॒र्विश्व॑मि॒दं जग॑दि॒यं द्यौः पृ॑थि॒वी म॒ह्यु१॒॑पस्थे॑ बिभृ॒तो वसु॒ नभ॑न्तामन्य॒के स॑मे ॥
abhyàrcha nabhā́kavad indrā́gnī yájasā girā́ | yáyor víśvam idáṃ jágad iyáṃ dyáuḥ pṛthivī́ mahy ùpásthe bibhṛtó vásu nábhantām anyaké samé ||
Sing forth to Indra and Agni in the manner of Nabhāka, with the worshipping word. For in these two is held all this moving world—this heaven and this vast earth—in whose lap they bear the treasure of being; may the others be scattered in the same field.
अ॒भि । अ॒र्च॒ । न॒भा॒क॒ऽवत् । इ॒न्द्रा॒ग्नी इति॑ । य॒जसा॑ । गि॒रा । ययोः॑ । विश्व॑म् । इ॒दम् । जग॑त् । इ॒यम् । द्यौः । पृ॒थि॒वी । म॒ही । उ॒पऽस्थे॑ । बि॒भृ॒तः । वसु॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥अभि । अर्च । नभाकवत् । इन्द्राग्नी इति । यजसा । गिरा । ययोः । विश्वम् । इदम् । जगत् । इयम् । द्यौः । पृथिवी । मही । उपस्थे । बिभृतः । वसु । नभन्ताम् । अन्यके । समे ॥abhi | arca | nabhāka-vat | indrāgnī iti | yajasā | girā | yayoḥ | viśvam | idam | jagat | iyam | dyauḥ | pṛthivī | mahī | upa-sthe | bibhṛtaḥ | vasu | nabhantām | anyake | same