Sukta 8.40
ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः । ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे ॥
ता हि मध्यं॒ भरा॑णामिन्द्रा॒ग्नी अ॑धिक्षि॒तः । ता उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा॑ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभ॑न्तामन्य॒के स॑मे ॥
tā́ hí mádhyaṃ bhárāṇām indrā́gnī adhikṣitáḥ | tā́ u kavitvanā́ kavī́ pṛcchyámānā sakhīyaté sáṃ dhītám aśnutaṃ nárā nábhantām anyaké samé ||
For those two, Indra and Agni, are established in the middle of the onrushes and burdens. Those two seer-powers, by their poetry and vision, questioned and befriended, attain the joined thought; O heroes, may the others be scattered in the same field.
ता । हि । मध्य॑म् । भरा॑णाम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒धि॒ऽक्षि॒तः । ता । ऊँ॒ इति॑ । क॒वि॒ऽत्व॒ना । क॒वी इति॑ । पृ॒च्छ्यमा॑ना । स॒खी॒ऽय॒ते । सम् । धी॒तम् । अ॒श्नु॒त॒म् । नरा॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ता । हि । मध्यम् । भराणाम् । इन्द्राग्नी इति । अधिक्षितः । ता । ऊँ इति । कवित्वना । कवी इति । पृच्छ्यमाना । सखीयते । सम् । धीतम् । अश्नुतम् । नरा । नभन्ताम् । अन्यके । समे ॥tā | hi | madhyam | bharāṇām | indrāgnī iti | adhi-kṣitaḥ | tā | oṃ iti | kavi-tvanā | kavī iti | pṛcchyamānā | sakhī-yate | sam | dhītam | aśnutam | narā | nabhantām | anyake | same