Sukta 8.40
नहि वां वव्रयामहेऽथेन्द्रमिद्यजामहे शविष्ठं नृणां नरम् । स नः कदा चिदर्वता गमदा वाजसातये गमदा मेधसातये नभन्तामन्यके समे ॥
न॒हि वां॑ व॒व्रया॑म॒हेऽथेन्द्र॒मिद्य॑जामहे॒ शवि॑ष्ठं नृ॒णां नर॑म् । स न॑: क॒दा चि॒दर्व॑ता॒ गम॒दा वाज॑सातये॒ गम॒दा मे॒धसा॑तये॒ नभ॑न्तामन्य॒के स॑मे ॥
náhi vā́ṃ vavráyāmahe ’théndram íd yajāmahe śáviṣṭhaṃ nṛṇā́ṃ náram | sá naḥ kadā́ cíd árvatā gámadā́ vā́ja-sātaye gámadā́ médha-sātaye nábhantām anyaké samé ||
We do not seek to bar you out; rather we sacrifice to Indra alone, the most mighty, the hero among men. May he come to us sometime with his steed for the winning of vāja, the plenitude of force, and for the winning of medhā, the luminous intelligence; may the others be driven away in the same arena.
न॒हि । वा॒म् । व॒व्रया॑महे । अथ॑ । इन्द्र॑म् । इत् । य॒जा॒म॒हे॒ । शवि॑ष्ठम् । नृ॒णाम् । नर॑म् । सः । नः॒ । क॒दा । चि॒त् । अर्व॑ता । गम॑त् । आ । वाज॑ऽसातये । गम॑त् । आ । मे॒धऽसा॑तये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥नहि । वाम् । वव्रयामहे । अथ । इन्द्रम् । इत् । यजामहे । शविष्ठम् । नृणाम् । नरम् । सः । नः । कदा । चित् । अर्वता । गमत् । आ । वाजसातये । गमत् । आ । मेधसातये । नभन्ताम् । अन्यके । समे ॥nahi | vām | vavrayāmahe | atha | indram | it | yajāmahe | śaviṣṭham | nṛṇām | naram | saḥ | naḥ | kadā | cit | arvatā | gamat | ā | vāja-sātaye | gamat | ā | medha-sātaye | nabhantām | anyake | same