Sukta 8.40
इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम् । येन दृळ्हा समत्स्वा वीळु चित्साहिषीमह्यग्निर्वनेव वात इन्नभन्तामन्यके समे ॥
इन्द्रा॑ग्नी यु॒वं सु न॒: सह॑न्ता॒ दास॑थो र॒यिम् । येन॑ दृ॒ळ्हा स॒मत्स्वा वी॒ळु चि॑त्साहिषी॒मह्य॒ग्निर्वने॑व॒ वात॒ इन्नभ॑न्तामन्य॒के स॑मे ॥
indrā́gnī yuváṃ sú naḥ sáhantā dā́satho rayím | yéna dṛḷhā́ samátsv ā́ vīḷú cít sāhiṣīmáhy agnír vanéva vā́ta ín nábhantām anyaké samé ||
O Indra and Agni, you two are the overcomers; grant us a rayi, a plenitude of inner richness, by which in the firm-set battles we may prevail even over what is hard to pierce. May the Fire within, like a wind moving through the forest, drive away the others in the same field of struggle.
इन्द्रा॑ग्नी॒ इति॑ । यु॒वम् । सु । नः॒ । सह॑न्ता । दास॑थः । र॒यिम् । येन॑ । दृ॒ळ्हा । स॒मत्ऽसु॑ । आ । वी॒ळु । चि॒त् । स॒हि॒षी॒महि॑ । अ॒ग्निः । वना॑ऽइव । वाते॑ । इत् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥इन्द्राग्नी इति । युवम् । सु । नः । सहन्ता । दासथः । रयिम् । येन । दृळ्हा । समत्सु । आ । वीळु । चित् । सहिषीमहि । अग्निः । वनाइव । वाते । इत् । नभन्ताम् । अन्यके । समे ॥indrāgnī iti | yuvam | su | naḥ | sahantā | dāsathaḥ | rayim | yena | dṛḷhā | samat-su | ā | vīḷu | cit | sahiṣīmahi | agniḥ | vanāiva | vāte | it | nabhantām | anyake | same