Sukta 8.38
एवा वामह्व ऊतये यथाहुवन्त मेधिराः । इन्द्राग्नी सोमपीतये ॥
ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः । इन्द्रा॑ग्नी॒ सोम॑पीतये ॥
evā́ vāṃ áhva ūtáye yáthā́huvanta médhirāḥ | indrā́gnī sóma-pītaye ||
Thus do I call you two for your help, as the wise have called you before; O Indra and Agni, for the drinking of Soma.
ए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः । इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥एव । वाम् । अह्वे । ऊतये । यथा । अहुवन्त । मेधिराः । इन्द्राग्नी इति । सोमपीतये ॥eva | vām | ahve | ūtaye | yathā | ahuvanta | medhirāḥ | indrāgnī iti | soma-pītaye