Sukta 8.38
श्यावाश्वस्य सुन्वतोऽत्रीणां शृणुतं हवम् । इन्द्राग्नी सोमपीतये ॥
श्या॒वाश्व॑स्य सुन्व॒तोऽत्री॑णां शृणुतं॒ हव॑म् । इन्द्रा॑ग्नी॒ सोम॑पीतये ॥
śyāvā́śvasya sunvató ’trī́ṇāṃ śṛṇutaṃ hávam | indrā́gnī sóma-pītaye ||
Hear the call of Śyāvāśva who presses Soma, (hear) of the Atris; O Indra and Agni, for the drinking of Soma.
श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । अत्री॑णाम् । शृ॒णु॒त॒म् । हव॑म् । इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥श्यावअश्वस्य । सुन्वतः । अत्रीणाम् । शृणुतम् । हवम् । इन्द्राग्नी इति । सोमपीतये ॥śyāva-aśvasya | sunvataḥ | atrīṇām | śṛṇutam | havam | indrāgnī iti | soma-pītaye