Sukta 8.38
प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू । इन्द्राग्नी सोमपीतये ॥
प्रा॒त॒र्याव॑भि॒रा ग॑तं दे॒वेभि॑र्जेन्यावसू । इन्द्रा॑ग्नी॒ सोम॑पीतये ॥
prātaryā́vabhir ā́ gataṃ devébhiḥ jenyāvasū | indrā́gnī sóma-pītaye ||
Come with the movements of the dawn, together with the gods, O you two noble bringers of good. O Indra and Agni, (come) for the drinking of Soma.
प्रा॒त॒र्याव॑ऽभिः । आ । ग॒त॒म् । दे॒वेभिः॑ । जे॒न्या॒व॒सू॒ इति॑ । इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥प्रातर्यावभिः । आ । गतम् । देवेभिः । जेन्यावसू इति । इन्द्राग्नी इति । सोमपीतये ॥prātaryāva-bhiḥ | ā | gatam | devebhiḥ | jenyāvasūiti | indrāgnī iti | soma-pītaye