Sukta 8.38
इमां गायत्रवर्तनिं जुषेथां सुष्टुतिं मम । इन्द्राग्नी आ गतं नरा ॥
इ॒मां गा॑य॒त्रव॑र्तनिं जु॒षेथां॑ सुष्टु॒तिं मम॑ । इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥
imā́ṃ gāyatrá-vartaniṃ juṣéthāṃ su-stutíṃ máma | indrā́gnī ā́ gatam narā ||
Accept this my well-shaped praise that moves in the gāyatrī course. O Indra and Agni, come here, you two heroic powers.
इ॒माम् । गा॒य॒त्रऽव॑र्तनिम् । जु॒षेथा॑म् । सु॒ऽस्तु॒तिम् । मम॑ । इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । न॒रा॒ ॥इमाम् । गायत्रवर्तनिम् । जुषेथाम् । सुस्तुतिम् । मम । इन्द्राग्नी इति । आ । गतम् । नरा ॥imām | gāyatra-vartanim | juṣethām | su-stutim | mama | indrāgnī iti | ā | gatam | narā