Sukta 8.38
इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः । इन्द्राग्नी तस्य बोधतम् ॥
इ॒दं वां॑ मदि॒रं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नर॑: । इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥
idáṃ vāṃ madiráṃ mádhv ádhukṣann ádribhir náraḥ | indrā́gnī tásya bodhatam ||
This intoxicating honey for you two the strong ones have milked out with the pressing-stones. O Indra and Agni, awaken to it (and drink of the Soma).
इ॒दम् । वा॒म् । म॒दि॒रम् । मधु॑ । अधु॑क्षन् । अद्रि॑ऽभिः । नरः॑ । इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥इदम् । वाम् । मदिरम् । मधु । अधुक्षन् । अद्रिभिः । नरः । इन्द्राग्नी इति । तस्य । बोधतम् ॥idam | vām | madiram | madhu | adhukṣan | adri-bhiḥ | naraḥ | indrāgnī iti | tasya | bodhatam