Sukta 8.38
जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती । इन्द्राग्नी आ गतं नरा ॥
जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ सु॒तं सोमं॑ सधस्तुती । इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥
juṣéthāṃ yajñám iṣṭáye sutáṃ sómaṃ sadhastutī́ | indrā́gnī ā́ gatam narā ||
Take delight in the yajña for the desired fulfilment; accept the pressed Soma in the shared hymn of the session. O Indra and Agni, come here, you two heroic powers.
जु॒षेथा॑म् । य॒ज्ञम् । इ॒ष्टये॑ । सु॒तम् । सोम॑म् । स॒ध॒स्तु॒ती॒ इति॑ सधऽस्तुती । इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । न॒रा॒ ॥जुषेथाम् । यज्ञम् । इष्टये । सुतम् । सोमम् । सधस्तुती इति सधस्तुती । इन्द्राग्नी इति । आ । गतम् । नरा ॥juṣethām | yajñam | iṣṭaye | sutam | somam | sadhastutī itisadha-stutī | indrāgnī iti | ā | gatam | narā