Sukta 8.38
तोशासा रथयावाना वृत्रहणापराजिता । इन्द्राग्नी तस्य बोधतम् ॥
तो॒शासा॑ रथ॒यावा॑ना वृत्र॒हणाप॑राजिता । इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥
toṣā́sā ratha-yā́vānā vṛtra-hánā́parājitā | indrā́gnī tásya bodhatam ||
Delighting (in the offering), moving with the chariot of dynamic force, slayers of the Coverer and unconquered—O Indra and Agni, awaken to this (our rite).
तो॒षासा॑ । र॒थ॒ऽयावा॑ना । वृ॒त्र॒ऽहना॑ । अप॑राऽजिता । इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥तोषासा । रथयावाना । वृत्रहना । अपराजिता । इन्द्राग्नी इति । तस्य । बोधतम् ॥toṣāsā | ratha-yāvānā | vṛtra-hanā | aparājitā | indrāgnī iti | tasya | bodhatam