Sukta 8.38
यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु । इन्द्राग्नी तस्य बोधतम् ॥
य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे॑षु॒ कर्म॑सु । इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥
yajñásya hí sthá ṛtvíjā sasnī́ vā́jeṣu kármasu | indrā́gnī tásya bodhatam ||
For you two are truly the sacrificer-priests of the yajña, the victorious ones in the works that bring plenitudes of force. O Indra and Agni, awaken to this (our offering and intention).
य॒ज्ञस्य॑ । हि । स्थः । ऋ॒त्विजा॑ । सस्नी॒ इति॑ । वाजे॑षु । कर्म॑सु । इन्द्रा॑ग्नी॒ इति॑ । तस्य॑ । बो॒ध॒त॒म् ॥यज्ञस्य । हि । स्थः । ऋत्विजा । सस्नी इति । वाजेषु । कर्मसु । इन्द्राग्नी इति । तस्य । बोधतम् ॥yajñasya | hi | sthaḥ | ṛtvijā | sasnī iti | vājeṣu | karmasu | indrāgnī iti | tasya | bodhatam