Sukta 8.37
क्षत्राय त्वमवसि न त्वमाविथ शचीपत इन्द्र विश्वाभिरूतिभिः । माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
क्ष॒त्राय॑ त्व॒मव॑सि॒ न त्व॑माविथ शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
kṣatrā́ya tvám ávasi ná tvam ā́vitha śacī-pate índra víśvābhir ū́tibhiḥ | mādhyáṃdinasya sávanasya vṛtra-hann anédya píbā sómasya vajrivaḥ ||
For the kṣatra (sovereign power) thou givest protection—none but thou gives it, O Indra lord of plenitude, with all thy succours. At the midday pressing, O Vṛtra-slayer, blameless one, drink of the Soma, O thunderbolt-bearer.
क्ष॒त्राय॑ । त्व॒म् । अव॑सि । न । त्व॒म् । आ॒वि॒थ॒ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥क्षत्राय । त्वम् । अवसि । न । त्वम् । आविथ । शचीपते । इन्द्र । विश्वाभिः । ऊतिभिः । माध्यन्दिनस्य । सवनस्य । वृत्रहन् । अनेद्य । पिब । सोमस्य । वज्रिवः ॥kṣatrāya | tvam | avasi | na | tvam | āvitha | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ | mādhyandinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri-vaḥ