Sukta 8.37
श्यावाश्वस्य रेभतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः । प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र क्षत्राणि वर्धयन् ॥
श्या॒वाश्व॑स्य॒ रेभ॑त॒स्तथा॑ शृणु॒ यथाशृ॑णो॒रत्रे॒: कर्मा॑णि कृण्व॒तः । प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥
śyāvā́śvasya rébhatas táthā śṛṇu yáthā́śṛṇor átreḥ kármāṇi kṛṇvatáḥ | prá trasádasyum āvitha tvám éka ín nṛṣā́hya índra kṣatrā́ṇi vardháyan ||
Hear in the same way the inspired chant of Śyāvāśva, as once you heard Atri labouring in his works. You did indeed advance and protect Trasadasyu; you alone, O Indra, irresistible to men, are the increaser of the soul’s powers of rule and mastery.
श्या॒वऽअ॑श्वस्य । रेभ॑तः । तथा॑ । शृ॒णु॒ । यथा॑ । अशृ॑णोः । अत्रेः॑ । कर्मा॑णि । कृ॒ण्व॒तः । प्र । त्र॒सद॑स्युम् । आ॒वि॒थ॒ । त्वम् । एकः॑ । इत् । नृ॒ऽसह्ये॑ । इन्द्र॑ । ब्रह्मा॑णि । व॒र्धय॑न् ॥श्यावअश्वस्य । रेभतः । तथा । शृणु । यथा । अशृणोः । अत्रेः । कर्माणि । कृण्वतः । प्र । त्रसदस्युम् । आविथ । त्वम् । एकः । इत् । नृसह्ये । इन्द्र । ब्रह्माणि । वर्धयन् ॥śyāva-aśvasya | rebhataḥ | tathā | śṛṇu | yathā | aśṛṇoḥ | atreḥ | karmāṇi | kṛṇvataḥ | pra | trasadasyum | āvitha | tvam | ekaḥ | it | nṛ-sahye | indra | brahmāṇi | vardhayan