Sukta 8.37
क्षेमस्य च प्रयुजश्च त्वमीशिषे शचीपत इन्द्र विश्वाभिरूतिभिः । माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
क्षेम॑स्य च प्र॒युज॑श्च॒ त्वमी॑शिषे शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
kṣémasya ca prá-yujaś ca tvám ī́śiṣe śacī-pate índra víśvābhir ū́tibhiḥ | mādhyáṃdinasya sávanasya vṛtra-hann anédya píbā sómasya vajrivaḥ ||
Thou rulest both peace and the right yoking of forces, O Indra lord of plenitude, with all thy succours. At the midday pressing, O Vṛtra-slayer, blameless one, drink of the Soma, O thunderbolt-bearer.
क्षेम॑स्य । च॒ । प्र॒ऽयुजः॑ । च॒ । त्वम् । ई॒शि॒षे॒ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥क्षेमस्य । च । प्रयुजः । च । त्वम् । ईशिषे । शचीपते । इन्द्र । विश्वाभिः । ऊतिभिः । माध्यन्दिनस्य । सवनस्य । वृत्रहन् । अनेद्य । पिब । सोमस्य । वज्रिवः ॥kṣemasya | ca | pra-yujaḥ | ca | tvam | īśiṣe | śacī-pate | indra | viśvābhiḥ | ūti--bhiḥ | mādhyandinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri-vaḥ