Sukta 8.37
सस्थावाना यवयसि त्वमेक इच्छचीपत इन्द्र विश्वाभिरूतिभिः । माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
स॒स्थावा॑ना यवयसि॒ त्वमेक॒ इच्छ॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
sa-sthāvānā yavayasi tvám éka íc chācī-pate índra víśvābhir ū́tibhiḥ | mādhyáṃdinasya sávanasya vṛtra-hann anédya píbā sómasya vajrivaḥ ||
Thou alone, O Indra lord of plenitude, drivest away the standing and besieging powers with all thy succours. At the midday pressing, O Vṛtra-slayer, blameless one, drink of the Soma, O thunderbolt-bearer.
स॒ऽस्थावा॑ना । य॒व॒य॒सि॒ । त्वम् । एकः॑ । इत् । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥सस्थावाना । यवयसि । त्वम् । एकः । इत् । शचीपते । इन्द्र । विश्वाभिः । ऊतिभिः । माध्यन्दिनस्य । सवनस्य । वृत्रहन् । अनेद्य । पिब । सोमस्य । वज्रिवः ॥sa-sthāvānā | yavayasi | tvam | ekaḥ | it | śacī-pate | indra | viśvābhiḥ | ūti-bh iḥ | mādhyandinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri-vaḥ