Sukta 8.37
एकराळस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिरूतिभिः । माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
ए॒क॒राळ॒स्य भुव॑नस्य राजसि शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
eka-rā́ḷ asyá bhúvanasya rājasi śacī-pate índra víśvābhir ū́tibhiḥ | mādhyáṃdinasya sávanasya vṛtra-hann anédya píbā sómasya vajrivaḥ ||
Sole sovereign, thou rulest this world with all thy succours, O Indra lord of plenitude. At the midday pressing, O Vṛtra-slayer, blameless one, drink of the Soma, O thunderbolt-bearer.
ए॒क॒ऽराट् । अ॒स्य । भुव॑नस्य । रा॒ज॒सि॒ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥एकराट् । अस्य । भुवनस्य । राजसि । शचीपते । इन्द्र । विश्वाभिः । ऊतिभिः । माध्यन्दिनस्य । सवनस्य । वृत्रहन् । अनेद्य । पिब । सोमस्य । वज्रिवः ॥eka-rāṭ | asya | bhuvanasya | rājasi | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ | mādhyandinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri--vaḥ