Sukta 8.37
सेहान उग्र पृतना अभि द्रुहः शचीपत इन्द्र विश्वाभिरूतिभिः । माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
से॒हा॒न उ॑ग्र॒ पृत॑ना अ॒भि द्रुह॑: शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
sehāná ugra pṛ́tanā abhí drúhaḥ śacī-pate índra víśvābhir ū́tibhiḥ | mādhyáṃdinasya sávanasya vṛtra-hann anédya píbā sómasya vajrivaḥ ||
O fierce Indra, pressing forward, confront the treacheries in the battles with all thy succours. At the midday pressing, O Vṛtra-slayer, blameless one, drink of the Soma, O wielder of the thunder-force.
से॒हा॒नः । उ॒ग्र॒ । पृत॑नाः । अ॒भि । द्रुहः॑ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥सेहानः । उग्र । पृतनाः । अभि । द्रुहः । शचीपते । इन्द्र । विश्वाभिः । ऊतिभिः । माध्यन्दिनस्य । सवनस्य । वृत्रहन् । अनेद्य । पिब । सोमस्य । वज्रिवः ॥sehānaḥ | ugra | pṛtanāḥ | abhi | druhaḥ | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ | mādhyandinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajr i-vaḥ