Sukta 8.37
प्रेदं ब्रह्म वृत्रतूर्येष्वाविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभिः । माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
प्रेदं ब्रह्म॑ वृत्र॒तूर्ये॑ष्वाविथ॒ प्र सु॑न्व॒तः श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
prédáṃ bráhma vṛtra-tū́ryeṣv āvitha prá sunvatáḥ śacī-pate índra víśvābhir ū́tibhiḥ | mādhyáṃdinasya sávanasya vṛtra-hann anédya píbā sómasya vajrivaḥ ||
Forward this mantric power—thou hast helped it in the Vṛtra-battles; forward the Soma-presser, O Indra lord of the plenitude, with all thy succours. At the midday pressing, O slayer of Vṛtra, faultless one, drink of the Soma, O wielder of the thunder-force.
प्र । इ॒दम् । ब्रह्म॑ । वृ॒त्र॒ऽतूर्ये॑षु । आ॒वि॒थ॒ । प्र । सु॒न्व॒तः । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥प्र । इदम् । ब्रह्म । वृत्रतूर्येषु । आविथ । प्र । सुन्वतः । शचीपते । इन्द्र । विश्वाभिः । ऊतिभिः । माध्यन्दिनस्य । सवनस्य । वृत्रहन् । अनेद्य । पिब । सोमस्य । वज्रिवः ॥pra | idam | brahma | vṛtra-tūryeṣu | āvitha | pra | sunvataḥ | śacī-pate | indra | viśvābhiḥ | ūti-bhiḥ | mādhyandinasya | savanasya | vṛtra-han | anedya | piba | somasya | vajri-vaḥ