Sukta 8.36
श्यावाश्वस्य सुन्वतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः । प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र ब्रह्माणि वर्धयन् ॥
श्या॒वाश्व॑स्य सुन्व॒तस्तथा॑ शृणु॒ यथाशृ॑णो॒रत्रे॒: कर्मा॑णि कृण्व॒तः । प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॒ ब्रह्मा॑णि व॒र्धय॑न् ॥
śyāvā́śvasya sunvatás táthā śṛṇu yáthāśṛṇor atréḥ kármāṇi kṛṇvatáḥ | prá trasádasyum āvitha tvám éka ín nṛ-sā́hye índra bráhmāṇi vardháyan ||
Hear thus the Soma-presser Śyāvāśva, as once thou didst hear Atri while he was doing the works. Thou didst advance and protect Trasadasyu; thou alone indeed, O Indra, art irresistible in man-conquering strength, increasing the soul-forces of the mantra.
श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । तथा॑ । शृ॒णु॒ । यथा॑ । अशृ॑णोः । अत्रेः॑ । कर्मा॑णि । कृ॒ण्व॒तः । प्र । त्र॒सद॑स्युम् । आ॒वि॒थ॒ । त्वम् । एकः॑ । इत् । नृ॒ऽसह्ये॑ । इन्द्र॑ । ब्रह्मा॑णि । व॒र्धय॑न् ॥श्यावअश्वस्य । सुन्वतः । तथा । शृणु । यथा । अशृणोः । अत्रेः । कर्माणि । कृण्वतः । प्र । त्रसदस्युम् । आविथ । त्वम् । एकः । इत् । नृसह्ये । इन्द्र । ब्रह्माणि । वर्धयन् ॥śyāva-aśvasya | sunvataḥ | tathā | śṛṇu | yathā | aśṛṇoḥ | atreḥ | karmāṇi | kṛṇvataḥ | pra | trasadasyum | āvitha | tvam | ekaḥ | it | nṛ-sahye | indra | brahmāṇi | vardhayan