Sukta 8.34
आ त्वा मदच्युता हरी श्येनं पक्षेव वक्षतः । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
आ त्वा॑ मद॒च्युता॒ हरी॑ श्ये॒नं प॒क्षेव॑ वक्षतः । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
ā́ tvā madacyútā hárī śyénam pakṣéva vakṣataḥ | divó amúṣya śā́sato dívaṃ yáya divāvaso ||
Your two bay steeds, unshaken in the ecstasy, will bear you here like a falcon borne by its wings. From that heaven’s commanding truth, come in the swift flight of power into our luminous wideness.
आ । त्वा॒ । म॒द॒ऽच्युता॑ । हरी॒ इति॑ । श्ये॒नम् । प॒क्षाऽइ॑व । व॒क्ष॒तः॒ । दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥आ । त्वा । मदच्युता । हरी इति । श्येनम् । पक्षाइव । वक्षतः । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवावसो ॥ā | tvā | mada-cyutā | harī iti | śyenam | pakṣāiva | vakṣataḥ | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso