Sukta 8.34
आ त्वा होता मनुर्हितो देवत्रा वक्षदीड्यः । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
आ त्वा॒ होता॒ मनु॑र्हितो देव॒त्रा व॑क्ष॒दीड्य॑: । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
ā́ tvā hotā́ mánurhito devatrā́ vakṣad ī́ḍyaḥ | divó amúṣya śā́sato dívaṃ yáya divāvaso ||
The priest of the offering, set in the human being, will bear you here toward the godhead, O adorable one. From that heaven’s commanding order, move to the luminous heaven and become present as our uplifting power.
आ । त्वा॒ । होता॑ । मनुः॑ऽहितः । दे॒व॒ऽत्रा । व॒क्ष॒त् । ईड्यः॑ । दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥आ । त्वा । होता । मनुःहितः । देवत्रा । वक्षत् । ईड्यः । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवावसो ॥ā | tvā | hotā | manuḥ-hitaḥ | deva-trā | vakṣat | īḍyaḥ | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso