Sukta 8.34
स्मत्पुरंधिर्न आ गहि विश्वतोधीर्न ऊतये । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
स्मत्पु॑रंधिर्न॒ आ ग॑हि वि॒श्वतो॑धीर्न ऊ॒तये॑ । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
smatpuráṃdhir na ā́ gahi viśvátodhīr na ūtáye | divó amúṣya śā́sato dívaṃ yáya divāvaso ||
O Indra, rich in swift-fulfilling plenitudes, come to us; become the all-ward intelligence for our safeguarding. From that heaven and by that commanding power, journey to the luminous heaven—O lord of the day’s wideness—bringing us the help that upholds the right movement.
स्मत्ऽपु॑रन्धिः । नः॒ । आ । ग॒हि॒ । वि॒श्वतः॑ऽधीः । नः॒ । ऊ॒तये॑ । दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥स्मत्पुरन्धिः । नः । आ । गहि । विश्वतःधीः । नः । ऊतये । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवावसो ॥smat-purandhiḥ | naḥ | ā | gahi | viśvataḥ-dhīḥ | naḥ | ūtaye | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso