Sukta 8.34
दधामि ते सुतानां वृष्णे न पूर्वपाय्यम् । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
दधा॑मि ते सु॒तानां॒ वृष्णे॒ न पू॑र्व॒पाय्य॑म् । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
dadhā́mi te sutā́nāṃ vṛ́ṣṇe ná pūrva-pā́yyam | divó amúṣya śā́sato dívaṃ yáya divāvaso ||
I set for you the expressed Soma, O mighty one, a draught as of old, first to be drunk. From the ordering heaven come into this heaven and let the ancient delight become power in us.
दधा॑मि । ते॒ । सु॒ताना॑म् । वृष्णे॑ । न । पू॒र्व॒ऽपाय्य॑म् । दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥दधामि । ते । सुतानाम् । वृष्णे । न । पूर्वपाय्यम् । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवावसो ॥dadhāmi | te | sutānām | vṛṣṇe | na | pūrva-pāyyam | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso