Sukta 8.34
आ त्वा कण्वा इहावसे हवन्ते वाजसातये । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
आ त्वा॒ कण्वा॑ इ॒हाव॑से॒ हव॑न्ते॒ वाज॑सातये । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
ā́ tvā kā́ṇvā ihā́vase hávante vā́ja-sātaye | divó amúṣya śā́sato dívaṃ yáya divāvaso ||
The Kānvas call you here for help, for the winning of plenitude of force. From the ordering heaven come into this heaven, O Indra, and make the victory of power within us.
आ । त्वा॒ । कण्वाः॑ । इ॒ह । अव॑से । हव॑न्ते । वाज॑ऽसातये । दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥आ । त्वा । कण्वाः । इह । अवसे । हवन्ते । वाजसातये । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवावसो ॥ā | tvā | kaṇvāḥ | iha | avase | havante | vāja-sātaye | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso