Sukta 8.34
अत्रा वि नेमिरेषामुरां न धूनुते वृकः । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
अत्रा॒ वि ने॒मिरे॑षा॒मुरां॒ न धू॑नुते॒ वृक॑: । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
átrā ví némir eṣām urā́ṃ ná dhūnute vṛ́kaḥ | divó amúṣya śā́sato dívaṃ yáya divāvaso ||
Here the rim of their motion is unshaken, as a wolf cannot shake the broadness. So from the ordering heaven come into this heaven, O Indra of the luminous day: establish unshakable movement in us.
अत्र॑ । वि । ने॒मिः । ए॒षा॒म् । उरा॑म् । न । धू॒नु॒ते॒ । वृकः॑ । दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥अत्र । वि । नेमिः । एषाम् । उराम् । न । धूनुते । वृकः । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवावसो ॥atra | vi | nemiḥ | eṣām | urām | na | dhūnute | vṛkaḥ | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso